Sukta 9.72
साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः । यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु ॥
सा॒कं व॑दन्ति ब॒हवो॑ मनी॒षिण॒ इन्द्र॑स्य॒ सोमं॑ ज॒ठरे॒ यदा॑दु॒हुः । यदी॑ मृ॒जन्ति॒ सुग॑भस्तयो॒ नर॒: सनी॑ळाभिर्द॒शभि॒: काम्यं॒ मधु॑ ॥
sā́kaṃ vádanti bahávo manīṣíṇa índrasya sómaṃ jaṭháre yádāduhúḥ | yadī́ mṛjánti sú-gabhastayo nárāḥ sanī́ḷābhir daśábhiḥ kā́myaṃ mádhu ||
Many seers speak together of the Soma of Indra when they have drawn it into the belly (the inner vessel). When the strong-handed men purify it with the ten sisters moving in one home, the desired honey of delight is formed and made ready for the soul’s enjoyment.
सा॒कम् । व॒द॒न्ति॒ । ब॒हवः॑ । म॒नी॒षिणः॑ । इन्द्र॑स्य । सोम॑म् । ज॒ठरे॑ । यत् । आ॒ऽदु॒हुः । यदि॑ । मृ॒जन्ति॑ । सुऽग॑भस्तयः । नरः॑ । सऽनी॑ळाभिः । द॒सऽभिः॑ । काम्य॑म् । मधु॑ ॥साकम् । वदन्ति । बहवः । मनीषिणः । इन्द्रस्य । सोमम् । जठरे । यत् । आदुहुः । यदि । मृजन्ति । सुगभस्तयः । नरः । सनीळाभिः । दसभिः । काम्यम् । मधु ॥sākam | vadanti | bahavaḥ | manīṣiṇaḥ | indrasya | somam | jaṭhare | yat | āduhuḥ | yadi | mṛjanti | su-gabhastayaḥ | naraḥ | sa-nīḷābhiḥ | daśa-bhiḥ | kāmyam | madhu