Sukta 9.72
हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते । उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः ॥
हरिं॑ मृजन्त्यरु॒षो न यु॑ज्यते॒ सं धे॒नुभि॑: क॒लशे॒ सोमो॑ अज्यते । उद्वाच॑मी॒रय॑ति हि॒न्वते॑ म॒ती पु॑रुष्टु॒तस्य॒ कति॑ चित्परि॒प्रिय॑: ॥
háriṁ mṛjanti aruṣó ná yujyate sáṁ dhenúbhiḥ kalaśé sómo ajyate | udvā́cam ī́rayati hinváte matī́ puruṣṭutásya káti cit paripriyáḥ ||
They cleanse the tawny one; like a red-gold steed he is yoked to the work. With the milk-streams he is poured into the jar; Soma is anointed into his vessel of becoming. He lifts up the word and sets the thought in motion; to the much-praised, he becomes in many ways the intimate beloved.
हरि॑म् । मृ॒ज॒न्ति॒ । अ॒रु॒षः । न । यु॒ज्य॒ते॒ । सम् । धे॒नुऽभिः॑ । क॒लशे॑ । सोमः॑ । अ॒ज्य॒ते॒ । उत् । वाच॑म् । ई॒रय॑ति । हि॒न्वते॑ । म॒ती । पु॒रु॒ऽस्तु॒तस्य॑ । कति॑ । चि॒त् । प॒रि॒ऽप्रियः॑ ॥हरिम् । मृजन्ति । अरुषः । न । युज्यते । सम् । धेनुभिः । कलशे । सोमः । अज्यते । उत् । वाचम् । ईरयति । हिन्वते । मती । पुरुस्तुतस्य । कति । चित् । परिप्रियः ॥harim | mṛjanti | aruṣaḥ | na | yujyate | sam | dhenu-bhiḥ | kalaśe | somaḥ | ajyate | ut | vācam | īrayati | hinvate | matī | puru-stutasya | kati | cit | pari-priyaḥ