Sukta 9.69
एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ । सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥
ए॒ते सोमा॒: पव॑मानास॒ इन्द्रं॒ रथा॑ इव॒ प्र य॑युः सा॒तिमच्छ॑ । सु॒ताः प॒वित्र॒मति॑ य॒न्त्यव्यं॑ हि॒त्वी व॒व्रिं ह॒रितो॑ वृ॒ष्टिमच्छ॑ ॥
etḗ somā́ḥ pávamānāsa índraṃ ráthā iva prá yayuḥ sātím áccha | sutā́ḥ pavítram áti yánty ávyaṃ hitvī́ vavríṃ haríto vṛ́ṣṭim áccha ||
These Soma currents, purifying, go forth to Indra like chariots toward the winning. Pressed out, they pass beyond the woollen filter; leaving behind the covering, the tawny ones go toward the rain—toward the outpouring of the higher abundance.
ए॒ते । सोमाः॑ । पव॑मानासः । इन्द्र॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒तिम् । अच्छ॑ । सु॒ताः । प॒वित्र॑म् । अति॑ । य॒न्ति॒ । अव्य॑म् । हि॒त्वी । व॒व्रिम् । ह॒रितः॑ । वृ॒ष्टिम् । अच्छ॑ ॥एते । सोमाः । पवमानासः । इन्द्रम् । रथाःइव । प्र । ययुः । सातिम् । अच्छ । सुताः । पवित्रम् । अति । यन्ति । अव्यम् । हित्वी । वव्रिम् । हरितः । वृष्टिम् । अच्छ ॥ete | somāḥ | pavamānāsaḥ | indram | rathāḥ-iva | pra | yayuḥ | sātim | accha | sutāḥ | pavitram | ati | yanti | avyam | hitvī | vavrim | haritaḥ | vṛṣṭim | accha