Sukta 9.69
आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम् । यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥
आ न॑: पवस्व॒ वसु॑म॒द्धिर॑ण्यव॒दश्वा॑व॒द्गोम॒द्यव॑मत्सु॒वीर्य॑म् । यू॒यं हि सो॑म पि॒तरो॒ मम॒ स्थन॑ दि॒वो मू॒र्धान॒: प्रस्थि॑ता वय॒स्कृत॑: ॥
ā́ naḥ pavasva vásu-mad híraṇya-vad áśva-vad gó-mad yáva-mat su-vī́ryam | yūyáṃ hí soma pítaro máma sthána divó mū́rdhānaḥ prá-sthitā vayaḥ-kṛ́taḥ ||
Purify for us, bringing riches—golden, horse-rich, cow-rich, grain-rich, and the heroic power of the soul. For you, O Soma, are our fathers and our foundation; you are set upon the head of heaven, establishing and increasing our life-force.
आ । नः॒ । प॒व॒स्व॒ । वसु॑ऽमत् । हिर॑ण्यऽवत् । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् । सु॒ऽवीर्य॑म् । यू॒यम् । हि । सो॒म॒ । पि॒तरः॑ । मम॑ । स्थन॑ । दि॒वः । मू॒र्धानः॑ । प्रऽस्थि॑ताः । व॒यः॒ऽकृतः॑ ॥आ । नः । पवस्व । वसुमत् । हिरण्यवत् । अश्ववत् । गोमत् । यवमत् । सुवीर्यम् । यूयम् । हि । सोम । पितरः । मम । स्थन । दिवः । मूर्धानः । प्रस्थिताः । वयःकृतः ॥ā | naḥ | pavasva | vasu-mat | hiraṇya-vat | aśva-vat | go-mat | yava-mat | su-vīryam | yūyam | hi | soma | pitaraḥ | mama | sthana | divaḥ | mūrdhānaḥ | pra-sthitāḥ | vayaḥ-kṛtaḥ