Sukta 9.69
इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः । भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः ॥
इन्द॒विन्द्रा॑य बृह॒ते प॑वस्व सुमृळी॒को अ॑नव॒द्यो रि॒शादा॑: । भरा॑ च॒न्द्राणि॑ गृण॒ते वसू॑नि दे॒वैर्द्या॑वापृथिवी॒ प्राव॑तं नः ॥
índav índrāya bṛhaté pavasva su-mṛḷī́ko anavadyó riśā́dāḥ | bhárā candrā́ṇi gṛṇaté vásūni deváir dyā́vā-pṛthivī prá avataṃ naḥ ||
O Soma-drop, purify for Indra the Vast—benign, faultless, a destroyer of harm. Bring to the singer the shining riches; and you, Heaven and Earth with the gods, further and protect us.
इन्दो॒ इति॑ । इन्द्रा॑य । बृ॒ह॒ते । प॒व॒स्व॒ । सु॒ऽमृ॒ळी॒कः । अ॒न॒व॒द्यः । रि॒शादाः॑ । भर॑ । च॒न्द्राणि॑ । गृ॒ण॒ते । वसू॑नि । दे॒वैः । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । प्र । अ॒व॒त॒म् । नः॒ ॥इन्दो इति । इन्द्राय । बृहते । पवस्व । सुमृळीकः । अनवद्यः । रिशादाः । भर । चन्द्राणि । गृणते । वसूनि । देवैः । द्यावापृथिवी इति । प्र । अवतम् । नः ॥indo iti | indrāya | bṛhate | pavasva | su-mṛḷīkaḥ | anavadyaḥ | riśādāḥ | bhara | candrāṇi | gṛṇate | vasūni | devaiḥ | dyāvāpṛthivī iti | pra | avatam | naḥ