Sukta 9.69
सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत । शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥
सिन्धो॑रिव प्रव॒णे नि॒म्न आ॒शवो॒ वृष॑च्युता॒ मदा॑सो गा॒तुमा॑शत । शं नो॑ निवे॒शे द्वि॒पदे॒ चतु॑ष्पदे॒ऽस्मे वाजा॑: सोम तिष्ठन्तु कृ॒ष्टय॑: ॥
síndhor-iva pravaṇé nímna āśávo vṛ́ṣa-cyutā mádāso gātúm āśata | śáṃ no nivēśé dvi-padé catúṣ-padé ’smé vājā́ḥ soma tiṣṭhantu kṛ́ṣṭayaḥ ||
Like a river’s rush down the slope into the low ground, the swift ecstasies, poured by the Bull, have found their path. Peace to our dwelling, to two-foot and four-foot; in us, O Soma, may the plenitudes of force stand firm, and the peoples be established.
सिन्धोः॑ऽइव । प्र॒व॒णे । नि॒म्ने । आ॒शवः॑ । वृष॑ऽच्युताः । मदा॑सः । गा॒तुम् । आ॒श॒त॒ । शम् । नः॒ । नि॒ऽवे॒शे । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । अ॒स्मे इति॑ । वाजाः॑ । सो॒म॒ । ति॒ष्ठ॒न्तु॒ । कृ॒ष्टयः॑ ॥सिन्धोःइव । प्रवणे । निम्ने । आशवः । वृषच्युताः । मदासः । गातुम् । आशत । शम् । नः । निवेशे । द्विपदे । चतुःपदे । अस्मे इति । वाजाः । सोम । तिष्ठन्तु । कृष्टयः ॥sindhoḥ-iva | pravaṇe | nimne | āśavaḥ | vṛṣa-cyutāḥ | madāsaḥ | gātum | āśata | śam | naḥ | ni-veśe | dvi-pade | catuḥ-pade | asme iti | vājāḥ | soma | tiṣṭhantu | kṛṣṭayaḥ