Sukta 9.69
सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते । तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥
सूर्य॑स्येव र॒श्मयो॑ द्रावयि॒त्नवो॑ मत्स॒रास॑: प्र॒सुप॑: सा॒कमी॑रते । तन्तुं॑ त॒तं परि॒ सर्गा॑स आ॒शवो॒ नेन्द्रा॑दृ॒ते प॑वते॒ धाम॒ किं च॒न ॥
sū́ryasya-iva raśmáyo drāvayitnávō matsarā́saḥ pra-súpaḥ sākám īrate | tántuṃ tatáṃ pári sárgās āśávo néndrād ṛté pavate dhā́ma kíṃ cana ||
Like the rays of the Sun, swift-driving and eager, the rapturous currents move together. The fast streams run around the thread that is stretched; apart from Indra, he does not purify any realm at all.
सूर्य॑स्यऽइव । र॒श्मयः॑ । द्र॒व॒यि॒त्नवः॑ । म॒त्स॒रासः॑ । प्र॒ऽसुपः॑ । सा॒कम् । ई॒र॒ते॒ । तन्तु॑म् । त॒तम् । परि॑ । सर्गा॑सः । आ॒शवः॑ । न । इन्द्रा॑त् । ऋ॒ते । प॒व॒ते॒ । धाम॑ । किम् । च॒न ॥सूर्यस्यइव । रश्मयः । द्रवयित्नवः । मत्सरासः । प्रसुपः । साकम् । ईरते । तन्तुम् । ततम् । परि । सर्गासः । आशवः । न । इन्द्रात् । ऋते । पवते । धाम । किम् । चन ॥sūryasya-iva | raśmayaḥ | dravayitnavaḥ | matsarāsaḥ | pra-supaḥ | sākam | īrate | tantum | tatam | pari | sargāsaḥ | āśavaḥ | na | indrāt | ṛte | pavate | dhāma | kim | cana