Sukta 9.69
अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत । दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम् ॥
अमृ॑क्तेन॒ रुश॑ता॒ वास॑सा॒ हरि॒रम॑र्त्यो निर्णिजा॒नः परि॑ व्यत । दि॒वस्पृ॒ष्ठं ब॒र्हणा॑ नि॒र्णिजे॑ कृतोप॒स्तर॑णं च॒म्वो॑र्नभ॒स्मय॑म् ॥
ámṛktena rúśatā vā́sasā hárir ámartyo nirṇijānáḥ pári vyat | divás pṛṣṭháṃ barháṇā nirṇíje kṛtópa-stáraṇaṃ camvór nabhásmayam ||
Clad in the stainless shining robe, the tawny immortal, cleansing himself, has wrapped himself around. He has made the heaven’s back a bright covering for his cleansing; he has fashioned a spreading underlay for the cups, a sky-like foundation.
अमृ॑क्तेन । रुश॑ता । वास॑सा । हरिः॑ । अम॑र्त्यः । निः॒ऽनि॒जा॒नः । परि॑ । व्य॒त॒ । दि॒वः । पृ॒ष्ठम् । ब॒र्हणा॑ । निः॒ऽनिजे॑ । कृ॒त॒ । उ॒प॒ऽस्तर॑णम् । च॒म्वोः॑ । न॒भ॒स्मय॑म् ॥अमृक्तेन । रुशता । वाससा । हरिः । अमर्त्यः । निःनिजानः । परि । व्यत । दिवः । पृष्ठम् । बर्हणा । निःनिजे । कृत । उपस्तरणम् । चम्वोः । नभस्मयम् ॥amṛktena | ruśatā | vāsasā | hariḥ | amartyaḥ | niḥ-nijānaḥ | pari | vyata | divaḥ | pṛṣṭham | barhaṇā | niḥ-nije | kṛta | upa-staraṇam | camvoḥ | nabhasmayam