Sukta 9.69
उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् । अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥
उ॒क्षा मि॑माति॒ प्रति॑ यन्ति धे॒नवो॑ दे॒वस्य॑ दे॒वीरुप॑ यन्ति निष्कृ॒तम् । अत्य॑क्रमी॒दर्जु॑नं॒ वार॑म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो॑ अव्यत ॥
ukṣā́ mimāti práti yanti dhēnávo devásya devī́r úpa yanti niṣkṛtám | áty akramīd árjunaṃ vā́ram avyáyam átkaṃ ná niktáṃ pári sómo avyat ||
The bull measures it out; the cows move forward to meet him—divine energies of the god draw near to the clarified outlet. He has crossed beyond the bright, imperishable enclosure; Soma is woven around it like a garment dipped and dyed.
उ॒क्षा । मि॒मा॒ति॒ । प्रति॑ । य॒न्ति॒ । धे॒नवः॑ । दे॒वस्य॑ । दे॒वीः । उप॑ । य॒न्ति॒ । निः॒ऽकृ॒तम् । अति॑ । अ॒क्र॒मी॒त् । अर्जु॑नम् । वार॑म् । अ॒व्यय॑म् । अत्क॑म् । न । नि॒क्तम् । परि॑ । सोमः॑ । अ॒व्य॒त॒ ॥उक्षा । मिमाति । प्रति । यन्ति । धेनवः । देवस्य । देवीः । उप । यन्ति । निःकृतम् । अति । अक्रमीत् । अर्जुनम् । वारम् । अव्ययम् । अत्कम् । न । निक्तम् । परि । सोमः । अव्यत ॥ukṣā | mimāti | prati | yanti | dhenavaḥ | devasya | devīḥ | upa | yanti | niḥ-kṛtam | ati | akramīt | arjunam | vāram | avyayam | atkam | na | niktam | pari | somaḥ | avyata