Sukta 9.69
अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेॠतं यते । हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥
अव्ये॑ वधू॒युः प॑वते॒ परि॑ त्व॒चि श्र॑थ्नी॒ते न॒प्तीरदि॑तेॠ॒तं य॒ते । हरि॑रक्रान्यज॒तः सं॑य॒तो मदो॑ नृ॒म्णा शिशा॑नो महि॒षो न शो॑भते ॥
ávyē vadhū-yúḥ pavate pári tváci śrathnī́te náptīr áditer ṛtáṃ yaté | hárir akrān yajatáḥ saṃyató mádo nṛmnā́ śiśāno mahiṣó ná śobhate ||
Upon the sheep’s fleece he flows, desiring the bride—he moves around the skin and loosens the daughters of Aditi; he goes by the path of ṛta. The tawny one strides, the adorable, self-governed ecstasy; sharpening by power of soul-force, he shines like a great bull.
अव्ये॑ । व॒धू॒ऽयुः । प॒व॒ते॒ । परि॑ । त्व॒चि । श्र॒थ्नी॒ते । न॒प्तीः । अदि॑तेः । ऋ॒तम् । य॒ते । हरिः॑ । अ॒क्रा॒न् । य॒ज॒तः । स॒म्ऽय॒तः । मदः॑ । नृ॒म्ना । शिशा॑नः । म॒हि॒षः । न । शो॒भ॒ते॒ ॥अव्ये । वधूयुः । पवते । परि । त्वचि । श्रथ्नीते । नप्तीः । अदितेः । ऋतम् । यते । हरिः । अक्रान् । यजतः । सम्यतः । मदः । नृम्ना । शिशानः । महिषः । न । शोभते ॥avye | vadhū-yuḥ | pavate | pari | tvaci | śrathnāīte | naptīḥ | aditeḥ | ṛtam | yate | hariḥ | akrān | yajataḥ | sam-yataḥ | madaḥ | nṛmnā | śiśānaḥ | mahiṣaḥ | na | śobhate