Sukta 9.69
उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि । पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति ॥
उपो॑ म॒तिः पृ॒च्यते॑ सि॒च्यते॒ मधु॑ म॒न्द्राज॑नी चोदते अ॒न्तरा॒सनि॑ । पव॑मानः संत॒निः प्र॑घ्न॒तामि॑व॒ मधु॑मान्द्र॒प्सः परि॒ वार॑मर्षति ॥
úpo matíḥ pṛ́cyate sicyate mádhu mandrā́janī codate antárā́sani | pávamānaḥ santaníḥ prághnatām-iva mádhumān drápsaḥ pári vā́ram arṣati ||
The thought comes near and is mingled, it is steeped in honey; the delight-bearing birth impels it within the seat of the being. The purifying Soma, a continuous thread, like one who smites obstacles, the honey-rich drop flows around the enclosing net and passes onward.
उपो॒ इति॑ । म॒तिः पृ॒च्यते॑ । सि॒अयते॑ । मधु॑ । म॒न्द्र॒ऽअज॑नी । चो॒द॒ते॒ । अ॒न्तः । आ॒सनि॑ । पव॑मानः । स॒म्ऽत॒निः । प्र॑घ्न॒ताम्ऽइ॑व । मधु॑ऽमान् । द्र॒प्सः । परि॑ । वार॑म् । अ॒र्ष॒ति॒ ॥उपो इति । मतिः पृच्यते । सिअयते । मधु । मन्द्रअजनी । चोदते । अन्तः । आसनि । पवमानः । सम्तनिः । प्रघ्नताम्इव । मधुमान् । द्रप्सः । परि । वारम् । अर्षति ॥upo iti | matiḥ | pṛcyate | siayate | madhu | mandra-ajanī | codate | antaḥ | āsani | pavamānaḥ | sam-taniḥ | praghnatām-iva | madhu-mān | drapsaḥ | pari | vāram | arṣati