Sukta 9.69
इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि । उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते ॥
इषु॒र्न धन्व॒न्प्रति॑ धीयते म॒तिर्व॒त्सो न मा॒तुरुप॑ स॒र्ज्यूध॑नि । उ॒रुधा॑रेव दुहे॒ अग्र॑ आय॒त्यस्य॑ व्र॒तेष्वपि॒ सोम॑ इष्यते ॥
iṣúr ná dhánvan práti dhīyate matír vatsó ná mātúr úpa sarjí ū́rdhani | urúdhārā-iva duhḗ ágre āyátī ásya vratéṣv ápi sóma iṣyate ||
Like an arrow set against the bow, the thought is poised and directed; like a calf it hastens up to the mother’s swelling udder. In the forefront it yields its wide-flowing streams; even within his fixed laws and workings Soma presses forward to fulfil the rite within us.
इषुः॑ । न । धन्व॑न् । प्रति॑ । धी॒य॒ते॒ । म॒तिः । व॒त्सः । न । मा॒तुः । उप॑ । स॒र्जि॒ । ऊर्ध॑नि । उ॒रुधा॑राऽइव । दु॒हे॒ । अग्रे॑ । आ॒ऽय॒ती । अस्य॑ । व्र॒तेषु॑ । अपि॑ । सोमः॑ । इ॒ष्य॒ते॒ ॥इषुः । न । धन्वन् । प्रति । धीयते । मतिः । वत्सः । न । मातुः । उप । सर्जि । ऊर्धनि । उरुधाराइव । दुहे । अग्रे । आयती । अस्य । व्रतेषु । अपि । सोमः । इष्यते ॥iṣuḥ | na | dhanvan | prati | dhīyate | matiḥ | vatsaḥ | na | mātuḥ | upa | sarji | ūrdhani | urudhārā-iva | duhe | agre | āyatī | asya | vrateṣu | api | somaḥ | iṣyate