Sukta 9.67
इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया । हरिर्वाजमचिक्रदत् ॥
इन्दु॑र्हिन्वा॒नो अ॑र्षति ति॒रो वारा॑ण्य॒व्यया॑ । हरि॒र्वाज॑मचिक्रदत् ॥
índur hinvāṇó arṣati tiró vārāṇy avyáyā | hárir vā́jam acikradat ||
The Indu, urged onward, streams across the enclosing coverings by the imperishable path; the tawny power cries out the plenitude of force, as if proclaiming the victory of the soul’s advance.
इन्दुः॑ । हि॒न्वा॒नः । अ॒र्ष॒ति॒ । ति॒रः । वारा॑णि । अ॒व्यया॑ । हरिः॑ । वाज॑म् । अ॒चि॒क्र॒द॒त् ॥इन्दुः । हिन्वानः । अर्षति । तिरः । वाराणि । अव्यया । हरिः । वाजम् । अचिक्रदत् ॥induḥ | hinvānaḥ | arṣati | tiraḥ | vārāṇi | avyayā | hariḥ | vājam | acikradat