Sukta 9.67
त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् । द्युमन्तं शुष्ममुत्तमम् ॥
त्वं सु॑ष्वा॒णो अद्रि॑भिर॒भ्य॑र्ष॒ कनि॑क्रदत् । द्यु॒मन्तं॒ शुष्म॑मुत्त॒मम् ॥
tvaṃ suṣvāṇó adríbhiḥ abhy àrṣa kaníkradat | dyumántaṃ śúṣmam uttamám ||
Thou, when well pressed by the pressing-stones, flowest forth toward us with a resonant cry, bearing the luminous and supreme force—an uplifted energy of victory within the being.
त्वम् । सु॒स्वा॒नः । अद्रि॑ऽभिः । अ॒भि । अ॒र्ष॒ । कनि॑क्रदत् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । उ॒त्ऽत॒मम् ॥त्वम् । सुस्वानः । अद्रिभिः । अभि । अर्ष । कनिक्रदत् । द्युमन्तम् । शुष्मम् । उत्तमम् ॥tvam | susvānaḥ | adri-bhiḥ | abhi | arṣa | kanikradat | dyu-mantam | śuṣmam | ut-tamam