Sukta 9.67
यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् । सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥
यः पा॑वमा॒नीर॒ध्येत्यृषि॑भि॒: सम्भृ॑तं॒ रस॑म् । सर्वं॒ स पू॒तम॑श्नाति स्वदि॒तं मा॑त॒रिश्व॑ना ॥
yáḥ pāvamānī́r adhyéti ṛ́ṣibhiḥ sámbhṛtaṃ rásam | sárvaṃ sá pū́tam aśnāti svaditáṃ mātáriśvanā ||
Whoever recites/studies the Pavamānī verses—the essence gathered by the seers—he enjoys all of it as purified, made sweet by Mātariśvan (the life-breath in motion).
यः । पा॒व॒मा॒नीः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः । सम्ऽभृ॑तम् । रस॑म् । सर्व॒म् । सः । पू॒तम् । अ॒श्ना॒ति॒ । स्व॒दि॒तम् । मा॒त॒रिश्व॑ना ॥यः । पावमानीः । अधिएति । ऋषिभिः । सम्भृतम् । रसम् । सर्वम् । सः । पूतम् । अश्नाति । स्वदितम् । मातरिश्वना ॥yaḥ | pāvamānīḥ | adhi-eti | ṛṣi-bhiḥ | sam-bhṛtam | rasam | sarvam | saḥ | pūtam | aśnāti | svaditam | mātariśvanā