Sukta 9.67
पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् । तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥
पा॒व॒मा॒नीर्यो अ॒ध्येत्यृषि॑भि॒: सम्भृ॑तं॒ रस॑म् । तस्मै॒ सर॑स्वती दुहे क्षी॒रं स॒र्पिर्मधू॑द॒कम् ॥
pāvamānī́r yó adhyéti ṛ́ṣibhiḥ sámbhṛtaṃ rásam | tásmai sárasvatī duhē kṣīráṃ sárpir mádhūdakám ||
Whoever recites the Pavamānī verses—the essence gathered by the seers—unto him Sarasvatī yields milk, ghee, honey, and water: the nourishments of clarified consciousness.
पा॒व॒मा॒नीः । यः । अ॒धि॒ऽएति॑ । ऋषि॑ऽभिः॒ । सम्ऽभृ॑तम् । रस॑म् । तस्मै॑ । सर॑स्वती । दु॒हे॒ । क्षी॒रम् । स॒र्पिः । मधु॑ । उ॒द॒कम् ॥पावमानीः । यः । अधिएति । ऋषिभिः । सम्भृतम् । रसम् । तस्मै । सरस्वती । दुहे । क्षीरम् । सर्पिः । मधु । उदकम् ॥pāvamānīḥ | yaḥ | adhi-eti | ṛṣi-bhiḥ | sam-bhṛtam | rasam | tasmai | sarasvatī | duhe | kṣīram | sarpiḥ | madhu | udakam