Sukta 9.67
त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः । इन्द्राय सूरिरन्धसा ॥
त्वं सु॒तो नृ॒माद॑नो दध॒न्वान्म॑त्स॒रिन्त॑मः । इन्द्रा॑य सू॒रिरन्ध॑सा ॥
tváṃ sutó nṛ-mā́dano dádhanvān matsarín-tamaḥ | índrāya sūrír ándhasā ||
Thou, when pressed, delightest the human being; thou art the bearer and the most intoxicating—an inspired giver of the Soma-essence for Indra.
त्वम् । सु॒तः । नृ॒ऽमाद॑नः । द॒ध॒न्वान् । म॒त्स॒रिन्ऽत॑मः । इन्द्रा॑य । सू॒रिः । अन्ध॑सा ॥त्वम् । सुतः । नृमादनः । दधन्वान् । मत्सरिन्तमः । इन्द्राय । सूरिः । अन्धसा ॥tvam | sutaḥ | nṛ-mādanaḥ | dadhanvān | matsarin-tamaḥ | indrāya | sūriḥ | andhasā