Sukta 9.67
प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः । देवेभ्य उत्तमं हविः ॥
प्र प्या॑यस्व॒ प्र स्य॑न्दस्व॒ सोम॒ विश्वे॑भिरं॒शुभि॑: । दे॒वेभ्य॑ उत्त॒मं ह॒विः ॥
prá pyā́yasva prá syándasva sóma víśvebhir aṃśúbhiḥ | devébhyā uttamáṃ havíḥ ||
Increase and grow full; flow forth, O Soma, with all your rays—become for the gods the supreme offering.
प्र । प्या॒य॒स्व॒ । प्र । स्य॒न्द॒स्व॒ । सोम॑ । विश्वे॑भिः । अं॒शुऽभिः॑ । दे॒वेभ्यः॑ । उ॒त्ऽत॒मम् । ह॒विः ॥प्र । प्यायस्व । प्र । स्यन्दस्व । सोम । विश्वेभिः । अंशुभिः । देवेभ्यः । उत्तमम् । हविः ॥pra | pyāyasva | pra | syandasva | soma | viśvebhiḥ | aṃśu-bhiḥ | devebhyaḥ | ut-tamam | haviḥ