Sukta 9.67
पुनन्तु मां देवजनाः पुनन्तु वसवो धिया । विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥
पु॒नन्तु॒ मां दे॑वज॒नाः पु॒नन्तु॒ वस॑वो धि॒या । विश्वे॑ देवाः पुनी॒त मा॒ जात॑वेदः पुनी॒हि मा॑ ॥
punántu mā́ṃ deva-janā́ḥ punántu vásavo dhiyā́ | víśve devā́ḥ punītá mā | jā́ta-vedaḥ punī́hi mā ||
May the divine kindred purify me; may the Vasus purify me by the awakened thought. May all the gods cleanse me; O Jātavedas, purify me.
पु॒नन्तु॑ । माम् । दे॒व॒ऽज॒नाः । पु॒नन्तु॑ । वस॑वः । धि॒या । विश्वे॑ । दे॒वाः॒ । पु॒नी॒त । मा॒ । जात॑ऽवेदः । पु॒नी॒हि । मा॒ ॥पुनन्तु । माम् । देवजनाः । पुनन्तु । वसवः । धिया । विश्वे । देवाः । पुनीत । मा । जातवेदः । पुनीहि । मा ॥punantu | mām | deva-janāḥ | punantu | vasavaḥ | dhiyā | viśve | devāḥ | punīta | mā | jāta-vedaḥ | punīhi | mā