Sukta 9.67
त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः । अग्ने दक्षैः पुनीहि नः ॥
त्रि॒भिष्ट्वं दे॑व सवित॒र्वर्षि॑ष्ठैः सोम॒ धाम॑भिः । अग्ने॒ दक्षै॑: पुनीहि नः ॥
tribhíṣ tváṃ deva savitar várṣiṣṭhaiḥ soma dhā́mabhiḥ | àgne dákṣaiḥ punīhi naḥ ||
With the three, O divine Savitar—with the most mighty Soma-powers of the Light—O Agni, with your effective energies, purify us.
त्रि॒ऽभिः । त्वम् । दे॒व॒ । स॒वि॒तः॒ । वर्षि॑ष्ठैः । सो॒म॒ । धाम॑भिः । अग्ने॑ । दक्षैः॑ । पु॒नी॒हि॒ । नः॒ ॥त्रिभिः । त्वम् । देव । सवितः । वर्षिष्ठैः । सोम । धामभिः । अग्ने । दक्षैः । पुनीहि । नः ॥tri-bhiḥ | tvam | deva | savitaḥ | varṣiṣṭhaiḥ | soma | dhāma-bhiḥ | agne | dakṣaiḥ | punīhi | naḥ