Sukta 9.67
पवमानः सो अद्य नः पवित्रेण विचर्षणिः । यः पोता स पुनातु नः ॥
पव॑मान॒: सो अ॒द्य न॑: प॒वित्रे॑ण॒ विच॑र्षणिः । यः पो॒ता स पु॑नातु नः ॥
pávamānaḥ sá adyá naḥ pavítreṇa ví-carṣaṇiḥ | yáḥ pótā sá punātu naḥ ||
May that Pavamāna today purify us with the strainer—he who is the wide-working one; he who is the inner purifier-priest, may he cleanse us.
पव॑मानः । सः । अ॒द्य । नः॒ । प॒वित्रे॑ण । विऽच॑र्षणिः । यः । पो॒ता । सः । पु॒ना॒तु॒ । नः॒ ॥पवमानः । सः । अद्य । नः । पवित्रेण । विचर्षणिः । यः । पोता । सः । पुनातु । नः ॥pavamānaḥ | saḥ | adya | naḥ | pavitreṇa | vi-carṣaṇiḥ | yaḥ | potā | saḥ | punātu | naḥ