Sukta 9.67
त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे । पवस्व मंहयद्रयिः ॥
त्वं सो॑मासि धार॒युर्म॒न्द्र ओजि॑ष्ठो अध्व॒रे । पव॑स्व मंह॒यद्र॑यिः ॥
tváṃ sómāsi dhārayúr mandrá ójiṣṭho adhvaré | páv asva maṃháyad rayíḥ ||
Thou art Soma, the holder of the streams, the gladdening one, most powerful in the sacrifice; purify thyself, bringing to us the fullness of being.
त्वम् । सो॒म॒ । अ॒सि॒ । धा॒र॒युः । म॒न्द्रः । ओजि॑ष्ठः । अ॒ध्व॒रे । पव॑स्व । मं॒ह॒यत्ऽर॑यिः ॥त्वम् । सोम । असि । धारयुः । मन्द्रः । ओजिष्ठः । अध्वरे । पवस्व । मंहयत्रयिः ॥tvam | soma | asi | dhārayuḥ | mandraḥ | ojiṣṭhaḥ | adhvare | pavasva | maṃhayat-rayiḥ