Sukta 9.67
ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि । दधत्स्तोत्रे सुवीर्यम् ॥
ग्राव्णा॑ तु॒न्नो अ॒भिष्टु॑तः प॒वित्रं॑ सोम गच्छसि । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
grā́vṇā tunnó abhí-stutaḥ pavítraṃ soma gacchasi | dádhat stotré su-vī́ryam ||
Pressed by the stones and praised, O Soma, you go to the strainer; placing in our hymn a noble hero-force, you establish victorious energy in the soul’s utterance.
ग्राव्णा॑ । तु॒न्नः । अ॒भिऽस्तु॑तः । प॒वित्र॑म् । सो॒म॒ । ग॒च्छ॒सि॒ । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥ग्राव्णा । तुन्नः । अभिस्तुतः । पवित्रम् । सोम । गच्छसि । दधत् । स्तोत्रे । सुवीर्यम् ॥grāvṇā | tunnaḥ | abhi-stutaḥ | pavitram | soma | gacchasi | dadhat | stotre | su-vīryam