Sukta 9.67
आ कलशेषु धावति श्येनो वर्म वि गाहते । अभि द्रोणा कनिक्रदत् ॥
आ क॒लशे॑षु धावति श्ये॒नो वर्म॒ वि गा॑हते । अ॒भि द्रोणा॒ कनि॑क्रदत् ॥
ā́ kalaśéṣu dhāvati śyenó várma ví gāhate | abhí droṇā́ kaníkradat ||
He rushes into the vats; like a falcon he plunges through the covering, crying out over the wooden troughs—Soma pressing forward to the seat of offering within us.
आ । क॒लशे॑षु । धा॒व॒ति॒ । श्ये॒नः । वर्म॑ । वि । गा॒ह॒ते॒ । अ॒भि । द्रोणा॑ । कनि॑क्रदत् ॥आ । कलशेषु । धावति । श्येनः । वर्म । वि । गाहते । अभि । द्रोणा । कनिक्रदत् ॥ā | kalaśeṣu | dhāvati | śyenaḥ | varma | vi | gāhate | abhi | droṇā | kanikradat