Sukta 9.67
वाचो जन्तुः कवीनां पवस्व सोम धारया । देवेषु रत्नधा असि ॥
वा॒चो ज॒न्तुः क॑वी॒नां पव॑स्व सोम॒ धार॑या । दे॒वेषु॑ रत्न॒धा अ॑सि ॥
vā́co jantúḥ kavīnā́m páv-asva soma dhā́rayā | devéṣu ratna-dhā́ asi ||
O Soma, purify yourself in a streaming flow; you are the living impulse of the seers’ speech, and in the gods you hold and place the inner treasures.
वा॒चः । ज॒न्तुः । क॒वी॒नाम् । पव॑स्व । सो॒म॒ । धार॑या । दे॒वेषु॑ । र॒त्न॒ऽधाः । अ॒सि॒ ॥वाचः । जन्तुः । कवीनाम् । पवस्व । सोम । धारया । देवेषु । रत्नधाः । असि ॥vācaḥ | jantuḥ | kavīnām | pavasva | soma | dhārayā | deveṣu | ratna-dhāḥ | asi