Sukta 9.67
अयं त आघृणे सुतो घृतं न पवते शुचि । आ भक्षत्कन्यासु नः ॥
अ॒यं त॑ आघृणे सु॒तो घृ॒तं न प॑वते॒ शुचि॑ । आ भ॑क्षत्क॒न्या॑सु नः ॥
ayáṃ ta āghṛṇe sutó ghṛtáṃ na pavate śúci | ā bhakṣat kanyā́su naḥ ||
This pressed Soma, O blazing one, flows pure like clarified ghee; may it grant us nourishment and a right enjoyment within the ever-new energies, so that our growth proceeds in clarity.
अ॒यम् । ते॒ । आ॒घृ॒णे॒ । सु॒तः । घृ॒तम् । न । प॒व॒ते॒ । शुचि॑ । आ । भ॒क्ष॒त् । क॒न्या॑सु । नः॒ ॥अयम् । ते । आघृणे । सुतः । घृतम् । न । पवते । शुचि । आ । भक्षत् । कन्यासु । नः ॥ayam | te | āghṛṇe | sutaḥ | ghṛtam | na | pavate | śuci | ā | bhakṣat | kanyāsu | naḥ