Sukta 9.66
मृजन्ति त्वा समग्रुवोऽव्ये जीरावधि ष्वणि । रेभो यदज्यसे वने ॥
मृ॒जन्ति॑ त्वा॒ सम॒ग्रुवोऽव्ये॑ जी॒रावधि॒ ष्वणि॑ । रे॒भो यद॒ज्यसे॒ वने॑ ॥
mṛjánti tvā sámagruvo ’vyé jīrā́v ádhi ṣváṇi | rebhó yád ajyáse váne ||
They cleanse thee, with their chants in unison, upon the sheep’s wool, upon the ancient strainer, with its humming sound—when, O singer of the Word, thou art anointed in the wood.
मृ॒जन्ति॑ । त्वा॒ । सम् । अ॒ग्रुवः॑ । अव्ये॑ । जी॒रौ । अधि॑ । स्वनि॑ । रे॒भः । यत् । अ॒ज्यसे॑ । वने॑ ॥मृजन्ति । त्वा । सम् । अग्रुवः । अव्ये । जीरौ । अधि । स्वनि । रेभः । यत् । अज्यसे । वने ॥mṛjanti | tvā | sam | agruvaḥ | avye | jīrau | adhi | svani | rebhaḥ | yat | ajyase | vane