Sukta 9.66
पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षत । अर्वन्तो न श्रवस्यवः ॥
पव॑मानस्य ते कवे॒ वाजि॒न्त्सर्गा॑ असृक्षत । अर्व॑न्तो॒ न श्र॑व॒स्यव॑: ॥
pávamānasya te kave vā́jin tsárgā asṛkṣata | árvanto ná śravasyávaḥ ||
Of thee, O seer, as thou purifiest thyself, the strong outpourings are released—like coursers eager for glory, they rush forth with the plenitude of force.
पव॑मानस्य । ते॒ । क॒वे॒ । वाजि॑न् । सर्गाः॑ । अ॒सृ॒क्ष॒त॒ । अर्व॑न्तः । न । श्र॒व॒स्यवः॑ ॥पवमानस्य । ते । कवे । वाजिन् । सर्गाः । असृक्षत । अर्वन्तः । न । श्रवस्यवः ॥pavamānasya | te | kave | vājin | sargāḥ | asṛkṣata | arvantaḥ | na | śravasyavaḥ