Sukta 9.66
समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः । विप्रमाजा विवस्वतः ॥
समु॑ त्वा धी॒भिर॑स्वरन्हिन्व॒तीः स॒प्त जा॒मय॑: । विप्र॑मा॒जा वि॒वस्व॑तः ॥
sámu tvā dhībhír asvaran hinvatī́ḥ saptá jāmáyaḥ | vípram ājā́ vivásvataḥ ||
With their thoughts they sounded thee forth; the seven sisters, impelling, set thee in motion—O inspired seer, born of Vivasvat, awakened into the journey of light.
सम् । ऊँ॒ इति॑ । त्वा॒ । धी॒भिः । अ॒स्व॒र॒न् । हि॒न्व॒तीः । स॒प्त । जा॒मयः॑ । विप्र॑म् । आ॒जा । वि॒वस्व॑तः ॥सम् । ऊँ इति । त्वा । धीभिः । अस्वरन् । हिन्वतीः । सप्त । जामयः । विप्रम् । आजा । विवस्वतः ॥sam | oṃ iti | tvā | dhībhiḥ | asvaran | hinvatīḥ | sapta | jāmayaḥ | vipram | ājā | vivasvataḥ