Sukta 9.66
तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते । तुभ्यं धावन्ति धेनवः ॥
तवे॒मे स॒प्त सिन्ध॑वः प्र॒शिषं॑ सोम सिस्रते । तुभ्यं॑ धावन्ति धे॒नव॑: ॥
tavéme saptá síndhavaḥ praśíṣaṃ soma sisrate | túbhyaṃ dhāvanti dhenávaḥ ||
For thee these seven rivers flow forth, O Soma, to thy forward-going command; to thee the milch-cows run—streams of nourishing force hastening to the Delight.
तव॑ । इ॒मे । स॒प्त । सिन्ध॑वः । प्र॒ऽशिष॑म् । सो॒म॒ । सि॒स्र॒ते॒ । तुभ्य॑म् । धा॒व॒न्ति॒ । धे॒नवः॑ ॥तव । इमे । सप्त । सिन्धवः । प्रशिषम् । सोम । सिस्रते । तुभ्यम् । धावन्ति । धेनवः ॥tava | ime | sapta | sindhavaḥ | pra-śiṣam | soma | sisrate | tubhyam | dhāvanti | dhenavaḥ