Sukta 9.66
तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते । पवित्रं सोम धामभिः ॥
तव॑ शु॒क्रासो॑ अ॒र्चयो॑ दि॒वस्पृ॒ष्ठे वि त॑न्वते । प॒वित्रं॑ सोम॒ धाम॑भिः ॥
táva śukrā́so arcáyo divás pṛṣṭhé ví tanvate | pavítraṃ soma dhā́mabhiḥ ||
Thine are the bright rays of flame that spread themselves wide upon the back of heaven; and by thy established powers, O Soma, thou becomest the purifier—thy very state is a clarifying filter.
तव॑ । शु॒क्रासः॑ । अ॒र्चयः॑ । दि॒वः । पृ॒ष्ठे । वि । त॒न्व॒ते॒ । प॒वित्र॑म् । सो॒म॒ । धाम॑ऽभिः ॥तव । शुक्रासः । अर्चयः । दिवः । पृष्ठे । वि । तन्वते । पवित्रम् । सोम । धामभिः ॥tava | śukrāsaḥ | arcayaḥ | divaḥ | pṛṣṭhe | vi | tanvate | pavitram | soma | dhāma-bhiḥ