Sukta 9.66
पवस्व जनयन्निषोऽभि विश्वानि वार्या । सखा सखिभ्य ऊतये ॥
पव॑स्व ज॒नय॒न्निषो॒ऽभि विश्वा॑नि॒ वार्या॑ । सखा॒ सखि॑भ्य ऊ॒तये॑ ॥
pávasva janáyan níṣo ’bhí viśvā́ni vā́ryā | sakhā́ sákhibhya ūtáye ||
Purify thyself, bringing forth the impulsions of delight; press forward to all desirable things. As a comrade, come with help for the comrades.
पव॑स्व । ज॒नय॑न् । इषः॑ । अ॒भि । विश्वा॑नि । वार्या॑ । सखा॑ । सखि॑ऽभ्यः । ऊ॒तये॑ ॥पवस्व । जनयन् । इषः । अभि । विश्वानि । वार्या । सखा । सखिभ्यः । ऊतये ॥pavasva | janayan | iṣaḥ | abhi | viśvāni | vāryā | sakhā | sakhi-bhyaḥ | ūtaye