Sukta 9.66
परि धामानि यानि ते त्वं सोमासि विश्वतः । पवमान ऋतुभिः कवे ॥
परि॒ धामा॑नि॒ यानि॑ ते॒ त्वं सो॑मासि वि॒श्वत॑: । पव॑मान ऋ॒तुभि॑: कवे ॥
pári dhāmā́ni yā́ni te tváṃ sómāsi viśvátāḥ | pávamāna ṛtúbhiḥ kave ||
O Soma, thou art everywhere; around thee move all thy stations and ordered forms. O Purifying One, O Seer, thou becomest manifest through the seasons—through the right times of the Truth.
परि॑ । धामा॑नि । यानि॑ । ते॒ । त्वम् । सो॒म॒ । अ॒सि॒ । वि॒श्वतः॑ । पव॑मान । ऋ॒तुऽभिः॑ । क॒वे॒ ॥परि । धामानि । यानि । ते । त्वम् । सोम । असि । विश्वतः । पवमान । ऋतुभिः । कवे ॥pari | dhāmāni | yāni | te | tvam | soma | asi | viśvataḥ | pavamāna | ṛtu-bhiḥ | kave