Sukta 9.66
पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः । दधत्स्तोत्रे सुवीर्यम् ॥
पव॑मानो॒ व्य॑श्नवद्र॒श्मिभि॑र्वाज॒सात॑मः । दध॑त्स्तो॒त्रे सु॒वीर्य॑म् ॥
pávamāno vy àśnavad raśmíbhir vāja-sā́tamaḥ | dádhat stótre su-vī́ryam ||
Pavamāna spreads out and reaches with his rays, best winner of plenitude; he places into the hymn a noble hero-force.
पव॑मानः । वि । अ॒श्न॒व॒त् । र॒श्मिऽभिः॑ । वा॒ज॒ऽसात॑मः । दध॑त् । स्तो॒त्रे । सु॒ऽवीर्य॑म् ॥पवमानः । वि । अश्नवत् । रश्मिभिः । वाजसातमः । दधत् । स्तोत्रे । सुवीर्यम् ॥pavamānaḥ | vi | aśnavat | raśmi-bhiḥ | vāja-sātamaḥ | dadhat | stotre | su-vīryam