Sukta 9.66
पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत । जीरा अजिरशोचिषः ॥
पव॑मानस्य॒ जङ्घ्न॑तो॒ हरे॑श्च॒न्द्रा अ॑सृक्षत । जी॒रा अ॑जि॒रशो॑चिषः ॥
pávamānasya jaṅghnáto háreś candrā́ asṛkṣata | jīrā́ ajiráśociṣaḥ ||
As Pavamāna smites the obstructing darkness, the bright rays of the tawny one are released—swift-moving, with unfading flame of light.
पव॑मानस्य । जङ्घ्न॑तः । हरेः॑ । च॒न्द्राः । अ॒सृ॒क्ष॒त॒ । जी॒राः । अ॒जि॒रऽशो॑चिषः ॥पवमानस्य । जङ्घ्नतः । हरेः । चन्द्राः । असृक्षत । जीराः । अजिरशोचिषः ॥pavamānasya | jaṅghnataḥ | hareḥ | candrāḥ | asṛkṣata | jīrāḥ | ajira-śociṣaḥ