Sukta 9.66
पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् । कृष्णा तमांसि जङ्घनत् ॥
पव॑मान ऋ॒तं बृ॒हच्छु॒क्रं ज्योति॑रजीजनत् । कृ॒ष्णा तमां॑सि॒ जङ्घ॑नत् ॥
pávamāna ṛtáṃ bṛhác chukráṃ jyótir ajījanat | kṛṣṇā tāmāṃsi jaṅghanat ||
Soma, in his purifying flow, brings to birth the vast luminous Light of the Truth-Order; he strikes down the black darknesses.
पव॑मानः । ऋ॒तम् । बृ॒हत् । शु॒क्रम् । ज्योतिः॑ । अ॒जी॒ज॒न॒त् । कृ॒ष्णा । तमां॑सि । जङ्घ॑नत् ॥पवमानः । ऋतम् । बृहत् । शुक्रम् । ज्योतिः । अजीजनत् । कृष्णा । तमांसि । जङ्घनत् ॥pavamānaḥ | ṛtam | bṛhat | śukram | jyotiḥ | ajījanat | kṛṣṇā | tamāṃsi | jaṅghanat