Sukta 9.66
पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिम् । सूरो न विश्वदर्शतः ॥
पव॑मानो॒ अति॒ स्रिधो॒ऽभ्य॑र्षति सुष्टु॒तिम् । सूरो॒ न वि॒श्वद॑र्शतः ॥
pávamāno áti srídho abhyàrṣati suṣṭutím | sū́ro ná viśvádarśataḥ ||
Purifying in his flow, he streams beyond the obstructers and rushes to the perfect hymn of praise, like the Sun, visible to all in his wide revelation.
पव॑मानः । अति॑ । स्रिधः॑ । अ॒भि । अ॒र्ष॒ति॒ । सु॒ऽस्तु॒तिम् । सूरः॑ । न । वि॒श्वऽद॑र्शतः ॥पवमानः । अति । स्रिधः । अभि । अर्षति । सुस्तुतिम् । सूरः । न । विश्वदर्शतः ॥pavamānaḥ | ati | sridhaḥ | abhi | arṣati | su-stutim | sūraḥ | na | viśva-darśataḥ