Sukta 9.66
प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः । यद्गोभिर्वासयिष्यसे ॥
प्र ण॑ इन्दो म॒हे रण॒ आपो॑ अर्षन्ति॒ सिन्ध॑वः । यद्गोभि॑र्वासयि॒ष्यसे॑ ॥
prá ṇa indó mahé ráṇe ā́po arṣanti síndhavaḥ | yád góbhir vāsayiṣyáse ||
Flow forward for us, O Indu, for the great battle: the waters, the rushing rivers of being, stream out when thou wilt cause the Rays of Light (the cows) to dwell and gather within us.
प्र । नः॒ । इ॒न्दो॒ इति॑ । म॒हे । रणे॑ । आपः॑ । अ॒र्ष॒न्ति॒ । सिन्ध॑वः । यत् । गोभिः॑ । वा॒स॒यि॒ष्यसे॑ ॥प्र । नः । इन्दो इति । महे । रणे । आपः । अर्षन्ति । सिन्धवः । यत् । गोभिः । वासयिष्यसे ॥pra | naḥ | indo iti | mahe | raṇe | āpaḥ | arṣanti | sindhavaḥ | yat | gobhiḥ | vāsayiṣyase