Sukta 9.66
अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः । इन्दो सखित्वमुश्मसि ॥
अस्य॑ ते स॒ख्ये व॒यमिय॑क्षन्त॒स्त्वोत॑यः । इन्दो॑ सखि॒त्वमु॑श्मसि ॥
asyá te sakhyé vayám iyákṣantas tvā́-ūtayaḥ | índo sakhitvám uśmasi ||
In this thy friendship we would move and offer ourselves, upheld by thy help; O Indu, we yearn for comradeship with thee.
अस्य॑ । ते॒ । स॒ख्ये । व॒यम् । इय॑क्षन्तः । त्वाऽऊ॑तयः । इन्दो॒ इति॑ । स॒खि॒ऽत्वम् । उ॒श्म॒सि॒ ॥अस्य । ते । सख्ये । वयम् । इयक्षन्तः । त्वाऊतयः । इन्दो इति । सखित्वम् । उश्मसि ॥asya | te | sakhye | vayam | iyakṣantaḥ | tvā-ūtayaḥ | indo iti | sakhi-tvam | uśmasi