Sukta 9.66
अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः । अग्मन्नृतस्य योनिमा ॥
अच्छा॑ समु॒द्रमिन्द॒वोऽस्तं॒ गावो॒ न धे॒नव॑: । अग्म॑न्नृ॒तस्य॒ योनि॒मा ॥
áchā samudrám índavo ’stáṃ gā́vo ná dhenávaḥ | ágmann ṛtásya yónim ā́ ||
Toward the ocean the drops have gone home, like cows, like milch-givers; they have come to the womb of the Truth—into the source where ṛta is born and gathered.
अच्छ॑ । स॒मु॒द्रम् । इन्द॑वः । अस्त॑म् । गावः॑ । न । धे॒नवः॑ । अग्म॑न् । ऋ॒तस्य॑ । योनि॑म् । आ ॥अच्छ । समुद्रम् । इन्दवः । अस्तम् । गावः । न । धेनवः । अग्मन् । ऋतस्य । योनिम् । आ ॥accha | samudram | indavaḥ | astam | gāvaḥ | na | dhenavaḥ | agman | ṛtasya | yonim | ā