Sukta 9.65
यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥
यस्य॒ वर्णं॑ मधु॒श्चुतं॒ हरिं॑ हि॒न्वन्त्यद्रि॑भिः । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥
yásya várṇaṃ madhuścútaṃ hárim hinvánty ádribhiḥ | índum índrā́ya pītáye ||
He whose hue is honey-pouring, the tawny-golden, whom they impel with the pressing-stones—this Indu they set forward for Indra to drink: delight offered to the lord of luminous mind-force.
यस्य॑ । वर्ण॑म् । म॒धु॒ऽश्चुत॑म् । हरि॑म् । हि॒न्वन्ति॑ । अद्रि॑ऽभिः । इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥यस्य । वर्णम् । मधुश्चुतम् । हरिम् । हिन्वन्ति । अद्रिभिः । इन्दुम् । इन्द्राय । पीतये ॥yasya | varṇam | madhu-ścutam | harim | hinvanti | adri-bhiḥ | indum | indrāya | pītaye