Sukta 9.65
यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः । द्रुणा सधस्थमश्नुषे ॥
यद॒द्भिः प॑रिषि॒च्यसे॑ मृ॒ज्यमा॑नो॒ गभ॑स्त्योः । द्रुणा॑ स॒धस्थ॑मश्नुषे ॥
yád adbhiḥ parísicyase mṛjyámāno gábhastyoḥ | druṇā́ sadhástham aśnuṣe ||
When thou art sprinkled round with the waters and cleansed in the two hands, then thou attainest the firm seat: the settled foundation where the delight can abide.
यत् । अ॒त्ऽभिः । प॒रि॒ऽसि॒च्यसे॑ । मृ॒ज्यमा॑नः । गभ॑स्त्योः । द्रुणा॑ । स॒धऽस्थ॑म् । अ॒श्नु॒षे॒ ॥यत् । अत्भिः । परिसिच्यसे । मृज्यमानः । गभस्त्योः । द्रुणा । सधस्थम् । अश्नुषे ॥yat | at-bhiḥ | pari-sicyase | mṛjyamānaḥ | gabhastyoḥ | druṇā | sadha-stham | aśnuṣe