Sukta 9.65
तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये । स पवस्वानया रुचा ॥
तं त्वा॑ सु॒तेष्वा॒भुवो॑ हिन्वि॒रे दे॒वता॑तये । स प॑वस्वा॒नया॑ रु॒चा ॥
táṃ tvā sutéṣv ā́-bhuvo hinviré devá-tātaye | sá pavasvā́ nayā rucā́ ||
You—this Soma—within the pressed offerings the mighty ones impel for the becoming of the divine in us; so purify yourself by this light, by this shining guidance.
तम् । त्वा॒ । सु॒तेषु॑ । आ॒ऽभुवः॑ । हि॒न्वि॒रे । दे॒वऽता॑तये । सः । प॒व॒स्व॒ । अ॒नया॑ । रु॒चा ॥तम् । त्वा । सुतेषु । आभुवः । हिन्विरे । देवतातये । सः । पवस्व । अनया । रुचा ॥tam | tvā | suteṣu | ābhuvaḥ | hinvire | deva-tātaye | saḥ | pavasva | anayā | rucā