Sukta 9.65
प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः । श्रीणाना अप्सु मृञ्जत ॥
प्र शु॒क्रासो॑ वयो॒जुवो॑ हिन्वा॒नासो॒ न सप्त॑यः । श्री॒णा॒ना अ॒प्सु मृ॑ञ्जत ॥
prá śukrā́so vayó-juvo hinvānā́so ná saptáyaḥ | śrīṇānā́ apsú mṛ́ñjata ||
Forward move the bright ones, swift with the life-force, urged on like seven steeds; blending with the waters, they cleanse and make ready the currents of our being.
प्र । शु॒क्रासः॑ । व॒यः॒ऽजुवः॑ । हि॒न्वा॒नासः॑ । न । सप्त॑यः । श्री॒णा॒नाः । अ॒प्ऽसु । मृ॒ञ्ज॒त॒ ॥प्र । शुक्रासः । वयःजुवः । हिन्वानासः । न । सप्तयः । श्रीणानाः । अप्सु । मृञ्जत ॥pra | śukrāsaḥ | vayaḥ-juvaḥ | hinvānāsaḥ | na | saptayaḥ | śrīṇānāḥ | ap-su | mṛñjata