Sukta 9.65
इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः । आ पवस्व सहस्रिणम् ॥
इषं॑ तो॒काय॑ नो॒ दध॑द॒स्मभ्यं॑ सोम वि॒श्वत॑: । आ प॑वस्व सह॒स्रिण॑म् ॥
íṣaṃ tokā́ya no dádhad asmábhyaṃ soma viśvát aḥ | ā pavasva sahasríṇam ||
Placing the nourishing force for our offspring—yes, for us from every side—purify yourself towards us, O Soma, bringing the thousandfold plenitude.
इष॑म् । तो॒काय॑ । नः॒ । दध॑त् । अ॒स्मभ्य॑म् । सो॒म॒ । वि॒श्वतः॑ । आ । प॒व॒स्व॒ । स॒ह॒स्रिण॑म् ॥इषम् । तोकाय । नः । दधत् । अस्मभ्यम् । सोम । विश्वतः । आ । पवस्व । सहस्रिणम् ॥iṣam | tokāya | naḥ | dadhat | asmabhyam | soma | viśvataḥ | ā | pavasva | sahasriṇam