Sukta 9.65
अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् । सीदञ्छ्येनो न योनिमा ॥
अर्षा॑ सोम द्यु॒मत्त॑मो॒ऽभि द्रोणा॑नि॒ रोरु॑वत् । सीद॑ञ्छ्ये॒नो न योनि॒मा ॥
árṣā soma dyumáttamo ’bhí droṇā́ni rór uvat | sī́dañ chyēnó na yónim ā́ ||
Flow, O Soma, most luminous, crying out over the troughs; settle into your home like a falcon to its nest—entering the secure seat of the soul’s receptacle.
अर्ष॑ । सो॒म॒ । द्यु॒मत्ऽत॑मः । अ॒भि । द्रोणा॑नि । रोरु॑वत् । सीद॑न् । श्ये॒नः । न । योनि॑म् । आ ॥अर्ष । सोम । द्युमत्तमः । अभि । द्रोणानि । रोरुवत् । सीदन् । श्येनः । न । योनिम् । आ ॥arṣa | soma | dyumat-tamaḥ | abhi | droṇāni | roruvat | sīdan | śyenaḥ | na | yonim | ā