Sukta 9.65
यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः । स पवस्वाभिमातिहा ॥
यस्य॑ ते॒ मद्यं॒ रसं॑ ती॒व्रं दु॒हन्त्यद्रि॑भिः । स प॑वस्वाभिमाति॒हा ॥
yásya te mádyaṃ rásaṃ tīvráṃ dúhanty ádribhiḥ | sá pavasvābhimāti-hā ||
You whose intoxicating essence, sharp and intense, is milked out by the pressing-stones—purify yourself as that slayer of hostile forces in us.
यस्य॑ । ते॒ । मद्य॑म् । रस॑म् । ती॒व्रम् । दु॒हन्ति॑ । अद्रि॑ऽभिः । सः । प॒व॒स्व॒ । अ॒भि॒मा॒ति॒ऽहा ॥यस्य । ते । मद्यम् । रसम् । तीव्रम् । दुहन्ति । अद्रिभिः । सः । पवस्व । अभिमातिहा ॥yasya | te | madyam | rasam | tīvram | duhanti | adri-bhiḥ | saḥ | pavasva | abhi | māti-hā