Sukta 9.65
आ न इन्दो महीमिषं पवस्व विश्वदर्शतः । अस्मभ्यं सोम गातुवित् ॥
आ न॑ इन्दो म॒हीमिषं॒ पव॑स्व वि॒श्वद॑र्शतः । अ॒स्मभ्यं॑ सोम गातु॒वित् ॥
ā na índo mahī́m íṣaṃ páv asva viśvá-darśataḥ | asmábhyaṃ soma gātú-vit ||
Flow towards us, O Indu, bringing the vast nourishment; O all-beautifully manifest Soma, become for us the knower and finder of the right paths of movement (the inner ways).
आ । नः॒ । इ॒न्दो॒ इति॑ । म॒हीम् । इष॑म् । पव॑स्व । वि॒श्वऽद॑र्शतः । अ॒स्मभ्य॑म् । सो॒म॒ । गा॒तु॒ऽवित् ॥आ । नः । इन्दो इति । महीम् । इषम् । पवस्व । विश्वदर्शतः । अस्मभ्यम् । सोम । गातुवित् ॥ā | naḥ | indo iti | mahīm | iṣam | pavasva | viśva-darśataḥ | asmabhyam | soma | gātu-vit