Sukta 9.65
तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम् । हिन्वे वाजेषु वाजिनम् ॥
तं त्वा॑ ध॒र्तार॑मो॒ण्यो॒३॒॑: पव॑मान स्व॒र्दृश॑म् । हि॒न्वे वाजे॑षु वा॒जिन॑म् ॥
táṃ tvā dhartā́ram oṇyòḥ pavámāna svardṛ́śam | hinvé vā́jeṣu vājínam ||
Thee we impel—O self-purifying Soma—as the upholder within the two vessels, the seer of the luminous worlds; we set thee in motion in the battles for plenitude, O winner of vāja.
तम् । त्वा॒ । ध॒र्तार॑म् । ओ॒ण्योः॑ । पव॑मान । स्वः॒ऽदृश॑म् । हि॒न्वे । वाजे॑षु । वा॒जिन॑म् ॥तम् । त्वा । धर्तारम् । ओण्योः । पवमान । स्वःदृशम् । हिन्वे । वाजेषु । वाजिनम् ॥tam | tvā | dhartāram | oṇyoḥ | pavamāna | svaḥ-dṛśam | hinve | vājeṣu | vājinam