Sukta 9.65
वृषा पवस्व धारया मरुत्वते च मत्सरः । विश्वा दधान ओजसा ॥
वृषा॑ पवस्व॒ धार॑या म॒रुत्व॑ते च मत्स॒रः । विश्वा॒ दधा॑न॒ ओज॑सा ॥
vṛ́ṣā pavasva dhā́rayā marútvate ca matsaráḥ | víśvā dádhāna ójasā ||
O Bull, purify thyself in a streaming current, joyous for the Marut-force; bearing all things by thy might—establishing the powers in us with strength.
वृषा॑ । प॒व॒स्व॒ । धार॑या । म॒रुत्व॑ते । च॒ । म॒त्स॒रः । विश्वा॑ । दधा॑नः । ओज॑सा ॥वृषा । पवस्व । धारया । मरुत्वते । च । मत्सरः । विश्वा । दधानः । ओजसा ॥vṛṣā | pavasva | dhārayā | marutvate | ca | matsaraḥ | viśvā | dadhānaḥ | ojasā